|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.60. अध्यायः 060
Mahabharata - Drona Parva - Chapter Topics
नारदेन सृञ्जयम्प्रति भगीरथचरित्रकथनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-60-0x(4415)(47062)
भगीरथं च राजानं मृतं सृञ्जय शुश्रुम।
`परित्राणाय पूर्वेषां येन गङ्गाऽवतारिता॥ 7-60-1(47063)
यस्येन्द्रो बाहुवीर्येण प्रीतो राज्ञो महात्मनः।
सोऽश्वमेधशतैरीजे समाप्तवरदक्षिणैः॥ 7-60-2(47064)
हविर्मन्त्रान्नसम्पन्नैर्देवानामादधौ मुदम्'।
येन भागीरथी गङ्गा चयनैः काञ्चनैश्चिता॥ 7-60-3(47065)
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः।
राज्ञश्च राजपुत्रांश्च ब्राह्मणेभ्यो ह्यमन्यत॥ 7-60-4(47066)
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः।
रथेरथे शतं नागाः सर्वे वै हेममालिनः॥ 7-60-5(47067)
सहस्रमश्वाश्चैकैकं गजानां पृष्ठतोऽन्वयुः।
अश्वेअश्वे शतं गावो गवां पश्चादजाविकम्॥ 7-60-6(47068)
तेनाक्रान्ता जनौघेन दक्षिणा भूयसीर्ददत्।
उपह्वरेऽतिव्यथिता तस्याङ्के निषसाद ह॥ 7-60-7(47069)
तथा मागीरथी गङ्गा ह्यूर्ध्वगा ह्यभवत्पुरा।
दुहितृत्वं गता राज्ञः पुत्रत्वमगमत्तदा॥ 7-60-8(47070)
तां तु गाथा जगुः प्रीता गन्धर्वाः सूर्यवर्चसः।
पितृदेवमनुष्याणां शृण्वतां वल्गुवादिनः॥ 7-60-9(47071)
भगीरथं यजमानमैक्ष्वाकुं भूरिदक्षिणम्।
गङ्गा समुद्रगा देवी वव्रे पितरमीश्वरम्॥ 7-60-10(47072)
तस्य सेन्द्रैः सुरगणैर्देवैर्यज्ञः स्वलङ्कृतः।
सम्यक्परिगृहीतश्च शान्तविघ्नो निरामयः॥ 7-60-11(47073)
यो य इच्छेत विप्रो वै यत्रयत्रात्मनः प्रियम्।
भगीरथस्तदा प्रीतस्तत्रतत्राददद्वशी॥ 7-60-12(47074)
नादेयं ब्राह्मणस्यासीद्यस्य यत्स्यात्प्रियं धनम्।
सोऽपि विप्रप्रसादेन ब्रह्मलोकं गतो नृपः॥ 7-60-13(47075)
येन यातौ मखमुखौ दिशाशाविह पादपाः।
तेनावस्थातुमिच्छन्ति तं गत्वा राजमीश्वरम्॥ 7-60-14(47076)
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-60-15(47077)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये षष्टितमोऽध्यायः॥ 60 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-60-3 चयनैः काञ्चनैश्चिता स्वर्णेष्टकमयैः क्रत्वर्थस्यण्डिलैर्व्याप्ता चयनैरिष्टकासोपानैर्वा कूलद्वये उद्गमात्संगमपर्यन्तं निचितेति वार्थः॥ 5-60-4 राज्ञश्च राजपुत्रांश्चातिक्रम्येति शेषः। ब्राह्मणेभ्यः अमन्यत दत्तवान्॥ 5-60-7 येन हेतुना उपह्वरे समीपे भूयसीर्दक्षिणा ददत् राजा आस्ते तेन हेतुना गङ्गा जनौघभारेण आक्रान्ता वेत्रयष्टिवत्तीरप्रदेशे नतिं प्राप्ता सती अतिव्यथिताऽतस्तस्याङ्के निषसादह। दक्षिणाभारेण तीरप्रदेशेऽवनते प्रवाहाम्बु राज्ञोऽङ्कपर्यन्तमागतमित्यर्थः॥ 5-60-8 पुत्रत्वं नरकात्त्राणकर्तृत्वम्॥ 5-60-12 वशी योगी योगप्रभावात्। यो यत्र देशे यत् इच्छेत्स तत्र प्राप्नु यादित्यर्थः॥ 5-60-14 येऽनुयाता अभिमुखा दिंशमद्यापि पादपाः। आनतास्तस्थुरिच्छन्तस्तमन्वागन्तुमीश्वरम् इति क.पाठः। अनेत्रास्तस्थुः इति क. ङ. पाठः॥ 5-60-60 षष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|